This page has not been fully proofread.

सुब्रह्मण्यभुजंगम् ।
 
विधौ क्लृप्तदण्डान्स्वलीला धृताण्डा-
 

 
निरस्तेभशुण्डाद्विषत्कालदण्डान् ।
 
हतेन्द्रारिषण्डाञ्जगत्राणशौण्डा-
 
न्सदा
 
प्रचण्डाश्रये बाहुदण्डान् ॥ १२ ॥
 
सदा शारदाः षण्मृगाङ्का यदि स्युः
 
समुद्यन्त एव स्थिताश्वेत्समन्तात् ।
 
सदा पूर्णबिम्बाः कलङ्केश्व हीना-
 
स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥
 
स्फुरन्मन्दहासैः सहसानि चञ्च-
 
त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।
 
सुधास्यन्दिबिम्बाधराणीशसूनो
 
तवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥
 
विशालेषु कर्णान्तदीर्घेष्वजस्रं
 
दयास्यन्दिषु द्वादशस्वीक्षणेषु ।
मयीषत्कटाक्षः सकृत्पातितश्चे-
 
वेत्ते दयाशील का नाम हानिः ॥ १५ ॥