2026-03-02 05:27:34 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
</ignore>
<ignore>१६७
</ignore>
<verse>भजे भवानीभवनावतंस-
मादित्यवर्णं तमसः परस्तात् ॥ १२ ॥
</verse>
<verse>मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्धध्या तदक्षरे परमे व्योमन् ॥ १३॥
</verse>
<verse>पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥
</verse>
<verse>नानारत्नगुलुच्छाली कान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥
</verse>
<verse>पर्यङ्कल्पोपरि दर्शनीयं
सवाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६ ॥
</verse>
<verse>जटारुणं चन्द्रकलाललामं
उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात् ॥ १७ ॥
</verse>
</page>
<ignore>त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
<ignore>१६७
<verse>भजे भवानीभवनावतंस-
मादित्यवर्णं तमसः परस्तात् ॥ १२ ॥
<verse>मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्
<verse>पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥
<verse>नानारत्नगुलुच्छाली
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥
<verse>पर्यङ्कल्पोपरि दर्शनीयं
सवाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६ ॥
<verse>जटारुणं चन्द्रकलाललामं
उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं
समस्तसाक्षिं तमसः परस्तात् ॥ १७ ॥
</page>