This page has not been fully proofread.

त्रिपुरसुन्दरीवेदपादस्तोत्रम् ।
 
१६७
 
भजे भवानीभवनावतंस-
 
मादित्यवर्णं तमसः परस्तात् ॥ १२ ॥
 
मुनिभिः स्वात्मलाभाय यचक्रं हृदि सेव्यते ।
 
तत्र पश्यामि बुद्धया तदक्षरे परमे व्योमन् ॥ १३॥
 
पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
 
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥ १४ ॥
 
नानारत्नगुलुच्छाली कान्तिकिम्मीलितोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥ १५ ॥
 
पर्यङ्कल्पोपरि दर्शनीयं
 
सवाणचापाङ्कुशपाशपाणिम् ।
 
अशेषभूषारमणीयमीडे
 
त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥ १६ ॥
 
जटारुणं चन्द्रकलाललामं
 
उद्वेललावण्यकलाभिरामम् ।
 
कामेश्वरं कामशरासनाङ्कं
 
समस्तसाक्षिं तमसः परस्तात् ॥ १७ ॥