This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६२
 
आनन्दलहरी ।
 
</ignore>
<verse>
य:यः स्पर्शे लग्नं सपदि लभते हेमपदवीं
 

यथा रथ्यापाथः शुचि भवति गङ्गौघमिलितम् ।

तथा तत्तत्पापैरतिमलिनमन्तर्मम यदि
 

त्वयि प्रेम्णा सक्तं कथमिव न जायेत विमलम् ॥ १२ ॥
 
</verse>
<verse>
त्वदन्यस्मादिच्छाविषयफललाभे न नियम-

स्त्वमज्ञानामिच्छाधिकमपि समर्था वितरणे ।

इति प्राहुः प्राञ्चः कमलभवनाद्यास्त्वयि मन-

स्त्वदासक्तं नक्तंदिवमुचितमीशानि कुरु तत् ॥ १३ ॥
 
</verse>
<verse>
स्फुरन्नानारत्नस्फटिकमयभित्तिप्रतिफल-
 

त्वदाकारं चञ्चच्छशधरकला सौधशिखरम् ।

मुकुन्दब्रह्मेन्द्रप्रभृतिपरिवारं विजयते
 

तवागारं रम्यं त्रिभुवनमहाराजगृहिणि ॥ १४ ॥
 
</verse>
<verse>
निवास :सः कैलासे विधिशतमखाद्याः स्तुतिकराः
 

कुटुम्बं त्रैलोक्यं कृतकरपुटः सिद्धिनिकरः ।

महेशः प्राणेशस्तदवनिधराधीशतनये
 

न ते सौभाग्यस्य क्वचिदपि मनागस्ति तुलना ॥ १५ ॥
 
</verse>
</page>