This page has not been fully proofread.

आनन्दलहरी ।
 
१६१
 
विधात्री धर्माणां त्वमसि सकलाम्नायजननी
त्वमर्थानां मूलं धनदनमनीयाङ्घ्रिकमले ।
त्वमादिः कामानां जननि कृतकन्दर्पविजये
सतां मुक्तेर्बीजं त्वमसि परमब्रह्ममहिषी ॥ ८ ॥
 
प्रभूता भक्तिस्ते यदपि न ममालोलमनस-
 
त्वया तु श्रीमत्या सदयमवलोक्योऽहमधुना ।
 
पयोदः पानीयं दिशति मधुरं चातकमुखे
 
भृशं शङ्के कैर्वा विधिभिरनुनीता मम मतिः ॥ ९ ॥
 
कृपापाङ्गालोकं वितर तरसा साधुचरिते
 
न ते युक्तोपेक्षा मयि शरणदीक्षामुपगते ।
 
न चेदिष्टं दद्यादनुपदमहो कल्पलतिका
 
विशेषः सामान्यैः कथमितरवल्लीपरिकरैः ॥ १०॥
 
महान्तं विश्वासं तव चरणपङ्केरुहयुगे
 
निधायान्यन्नैवाश्रितमिह मया दैवतमुमे !
 
तथापि त्वचेतो यदि मयि न जायेत सदयं
 
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ११ ॥
 
s. s. 11