2026-02-23 00:01:32 by ambuda-bot
This page has not been fully proofread.
१६०
आनन्दलहरी ।
विराजन्मन्दारद्रुमकुसुमहारस्तनतटी-
नदद्वीणानादश्रवणविलसत्कुण्डलगुणा ।
नताङ्गी मातङ्गी रुचिरगतिभङ्गी भगवती
सती शंभोरम्भोरुहचटुलचक्षुर्विजयते ॥ ४ ॥
नवीनार्कभ्राजन्मणिकनकभूषापरिकरै-
वृताङ्गी सारङ्गीरुचिरनयनाङ्गीकृतशिवा ।
तटित्पीता पीताम्बरललितमञ्जीरसुभगा
ममापर्णा पूर्णा निरवधिसुखैरस्तु सुमुखी ॥ ५ ॥
हिमाद्रेः संभूता सुललितकरैः पल्लवयुता
सुपुष्पा मुक्ताभिर्भ्रमरकलिता चालकभरैः ।
कृतस्थाणुस्थाना कुचफलनता सूक्तिसरसा
रुजां ही गन्री विलसति चिदानन्दलतिका ॥ ६ ॥
सपर्णामाकीर्णा कतिपयगुणैः सादरमिह
श्रयन्त्यन्ये वल्लीं मम तु मतिरेवं विलसति ।
अपर्णैका सेव्या जगति सकलैर्यत्परिवृतः
पुराणोऽपि स्थाणुः फलति किल कैवल्यपदवीम् ॥ ७ ॥