2026-03-02 05:29:42 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ आनन्दलहरी ॥
<verse>भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
<verse>घृतक्षीरद्राक्षामधुमधुरिमा कैरपि प
र्विशिष्यानाख्येयो भवति रसनामात्रविष
तथा ते सौन्दर्
कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
<verse>मुखे ते ताम्बूलं नयनयुगले कज्जलकला
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्काञ्ची शाटी पृथुकटितटे हाटकमयी
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥
</page>