This page has not been fully proofread.

11 BT: 11
 
॥ आनन्दलहरी ॥
 
भवानि स्तोतुं त्वां प्रभवति चतुर्भिर्न वदनैः
प्रजानामीशानस्त्रिपुरमथनः पञ्चभिरपि ।
 
न षड्भिः सेनानीर्दशशतमुखैरप्यहिपति-
 
स्तदान्येषां केषां कथय कथमस्मिन्नवसरः ॥ १ ॥
 
घृतक्षीरद्राक्षामधुमधुरिमा कैरपि पढ़ें-
 
विशिष्यानाख्येयो भवति रसनामात्रविषय: ।
तथा ते सौन्दर्य परमशिवदृङ्मात्रविषयः
कथंकारं ब्रूमः सकलनिगमागोचरगुणे ॥ २ ॥
 
मुखे ते ताम्बूलं नयनयुगले कज्जलकला
 
ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
 
स्फुरत्काची शाटी पृथुकटितटे हाटकमयी
 
भजामि त्वां गौरीं नगपतिकिशोरीमविरतम् ॥ ३ ॥