This page has not been fully proofread.

१५६
 
देवी भुजंगस्तोत्रम् ।
 
कदा वा हृषीकाणि साम्यं भजेयुः
 
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोप:
 
कदा वा मनो मे समूलं विनश्येत् ॥ २० ॥
 
मोवाकमाशास्महे देवि युष्म-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिच्यादिभास्वत्किरीटप्रतोली-
 
प्रदीपाय मानप्रभाभास्वराय ॥ २१ ॥
 
कचे चन्द्ररेखं कुचे तारहारं
 
करे स्वादुचा शरे षट्पदौघम् ।
 
स्मरामि स्मरारेरभिप्रायमेकं
 
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥
 
शरेष्वेव नासा धनुष्वेव जिह्वा
 
जपापाटले लोचने ते स्वरूपे ।
 
त्वषा भवश्चन्द्रखण्डे श्रवो मे
 
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥