2026-02-23 00:01:26 by ambuda-bot
This page has not been fully proofread.
१५६
देवी भुजंगस्तोत्रम् ।
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोप:
कदा वा मनो मे समूलं विनश्येत् ॥ २० ॥
मोवाकमाशास्महे देवि युष्म-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिच्यादिभास्वत्किरीटप्रतोली-
प्रदीपाय मानप्रभाभास्वराय ॥ २१ ॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादुचा शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वषा भवश्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥
देवी भुजंगस्तोत्रम् ।
कदा वा हृषीकाणि साम्यं भजेयुः
कदा वा न शत्रुर्न मित्रं भवानि ।
कदा वा दुराशाविषूचीविलोप:
कदा वा मनो मे समूलं विनश्येत् ॥ २० ॥
मोवाकमाशास्महे देवि युष्म-
पदाम्भोजयुग्माय तिग्माय गौरि ।
विरिच्यादिभास्वत्किरीटप्रतोली-
प्रदीपाय मानप्रभाभास्वराय ॥ २१ ॥
कचे चन्द्ररेखं कुचे तारहारं
करे स्वादुचा शरे षट्पदौघम् ।
स्मरामि स्मरारेरभिप्रायमेकं
मदाघूर्णनेत्रं मदीयं निधानम् ॥ २२ ॥
शरेष्वेव नासा धनुष्वेव जिह्वा
जपापाटले लोचने ते स्वरूपे ।
त्वषा भवश्चन्द्रखण्डे श्रवो मे
गुणे ते मनोवृत्तिरम्ब त्वयि स्यात् ॥ २३ ॥