This page has not been fully proofread.

सुब्रह्मण्यभुजंगम् ।
 
यदा संनिधानं गता मानवा मे
 
भवाम्भोधिपारं गतास्ते तदैव ।
इति व्यञ्जयन्सिन्धुतीरे य आस्ते
तमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥
 
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-
 
स्तथैवापदः संनिधौ सेवतां मे ।
इतीवोर्मिपङ्कीर्नृणां दर्शयन्तं
 
सदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥
 
गिरौ मन्निवासे नरा येऽधिरूढा -
 
स्तदा पर्वते राजते तेऽधिरूढाः ।
 
इतीव ब्रुवन्गन्धशैलाधिरूढः
 
स देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥
 
महाम्भोधितीरे महापापचोरे
 
मुनीन्द्रानुकूले सुगन्धाख्यशैले ।
 
गुहायां वसन्तं स्वभासा लसन्तं
 
जनार्ति हरन्तं श्रयामो गुहं तम् ॥ ७ ॥