2026-03-05 03:48:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१५४
</ignore>
<ignore>देवी भुजंगस्तोत्रम् ।
</ignore>
<verse>गणेशैर्ग्रहैरम्ब नक्षत्रपङ्कथा
क्त्या
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥
</verse>
<verse>लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालामम् ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥
</verse>
<verse>समुद्यत्सहस्रार्कविबिम्बाभवक्त्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥
</verse>
<verse>मणिस्यूतताटङ्कशोणास्यविबिम्बां
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥
</verse>
</page>
<ignore>१५४
<ignore>देवी भुजंगस्तोत्रम् ।
<verse>गणेशैर्ग्रहैरम्ब नक्षत्रपङ्
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥
<verse>लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमाला
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥
<verse>समुद्यत्सहस्रार्क
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥
<verse>मणिस्यूतताटङ्कशोणास्य
हरित्पट्टवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥
</page>