2026-02-23 00:01:26 by ambuda-bot
This page has not been fully proofread.
१५४
देवी भुजंगस्तोत्रम् ।
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्कथा
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥
समुद्यत्सहस्रार्कविम्बाभवक्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥
मणिस्यूतताटङ्कशोणास्यविम्बां
हरिपवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥
देवी भुजंगस्तोत्रम् ।
गणेशैर्ग्रहैरम्ब नक्षत्रपङ्कथा
तथा योगिनीराशिपीठैरभिन्नम् ।
महाकालमात्मानमामृश्य लोकं
विधत्से कृतिं वा स्थितिं वा महेशि ॥ १२ ॥
लसत्तारहारामतिस्वच्छचेलां
वहन्तीं करे पुस्तकं चाक्षमालाम ।
शरच्चन्द्रकोटिप्रभाभासुरां त्वां
सकृद्भावयन्भारतीवल्लभः स्यात् ॥ १३ ॥
समुद्यत्सहस्रार्कविम्बाभवक्रां
स्वभासैव सिन्दूरिताजाण्डकोटिम् ।
धनुर्बाणपाशाङ्कुशान्धारयन्तीं
स्मरन्तः स्मरं वापि संमोहयेयुः ॥ १४ ॥
मणिस्यूतताटङ्कशोणास्यविम्बां
हरिपवस्त्रां त्वगुल्लासिभूषाम् ।
हृदा भावयंस्तप्तहेमप्रभां त्वां
श्रियो नाशयत्यम्ब चाञ्चल्यभावम् ॥ १५ ॥