This page has been fully proofread once and needs a second look.

<page>
<ignore>
देवीभुजंगस्तोत्रम् ।
 
१५३</ignore>
<verse>
मृषान्यो मृषान्यः परो मिश्रमेनं
 

परः प्राकृतं चापरो बुद्धिमात्रम् ।

प्रपञ्चं मिमीते मुनीनां गणोऽयं
 

तदेतत्त्वमेवेति न त्वां जहीमः ॥ ८ ॥
 
</verse>
<verse>
निवृत्ति:तिः प्रतिष्ठा च विद्या च शान्ति-

स्तथा शान्त्यतीतेति पञ्चीकृताभिः

कलाभिः परे पञ्चविंशात्मिकाभि-
 

स्त्वमेकैव सेव्या शिवाभिन्नरूपा ॥ ९ ॥
 
</verse>
<verse>
अगाधेऽत्र संसारपङ्के निमग्नं
 

कलत्रादिभारेण खिन्नं नितान्तम् ।
 

महामोहपाशौघबद्धं चिरान्मां
 

समुद्धर्तुम् त्वमेकैव शक्ता ॥ १० ॥
 
</verse>
<verse>
समारभ्य मूलं गतो ब्रह्मचक्रं
 

भवद्दिव्यचक्रेश्वरीधामभाजः ।
 

महासिद्धिसंघात कल्पद्रुमाभा-
 
१५३
 

नवाप्याम्ब नादानुपास्ते च योगी ॥ ११ ॥
 
</verse>
</page>