This page has been fully proofread once and needs a second look.

<page>
<ignore>
१५२
 
देवीभुजंगस्तोत्रम् ।
 
</ignore>
<verse>
विनोदाय चैतन्यमेकं विभज्य
 

द्विधा देवि जीव:वः शिवश्चेति नाम्ना ।

शिवस्यापि जीवत्वमापादयन्ती
 

पुनर्जीवमेनं शिवं वा करोषि ॥ ४ ॥
 
</verse>
<verse>
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
 

मनो भ्रूबिलं प्रापयित्वा निवृत्ता:ताः
 

ततः सच्चिदानन्दरूपे पढ़ेदे ते
 

भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ ५ ॥
 
</verse>
<verse>
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
 

सदाभीतिमूले कलत्रे धने वा ।
 

न कश्चिद्विरज्यत्यो देवि चित्रं
 

कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६ ॥
 
</verse>
<verse>
शरीरे धनेऽपत्यवर्गे कलत्रे
 

विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
 

यदाकस्मिकं ज्योतिरानन्दरूपं
 

समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥
 
</verse>
</page>