This page has not been fully proofread.

१५२
 
देवीभुजंगस्तोत्रम् ।
 
विनोदाय चैतन्यमेकं विभज्य
 
द्विधा देवि जीव: शिवश्चेति नाम्ना ।
शिवस्यापि जीवत्वमापादयन्ती
 
पुनर्जीवनं शिवं वा करोषि ॥ ४ ॥
 
समाकुञ्च्य मूलं हृदि न्यस्य वायुं
 
मनो बिलं प्रापयित्वा निवृत्ता: ।
 
ततः सच्चिदानन्दरूपे पढ़े ते
 
भवन्त्यम्ब जीवाः शिवत्वेन केचित् ॥ ५ ॥
 
शरीरेऽतिकष्टे रिपौ पुत्रवर्गे
 
सदाभीतिमूले कलत्रे धने वा ।
 
न कश्चिद्विरज्यत्यो देवि चित्रं
 
कथं त्वत्कटाक्षं विना तत्त्वबोधः ॥ ६ ॥
 
शरीरे धनेऽपत्यवर्गे कलत्रे
 
विरक्तस्य सद्देशिकादिष्टबुद्धेः ।
 
यदाकस्मिकं ज्योतिरानन्दरूपं
 
समाधौ भवेत्तत्त्वमस्यम्ब सत्यम् ॥ ७ ॥