2026-02-23 00:01:23 by ambuda-bot
This page has not been fully proofread.
11 7: 11
॥ देवीभुजंगस्तोत्रम् ॥
विरिञ्चयादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रपुरं शंकराद्वैतमव्यात् ॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः : 1
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥
विरिश्वादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ ३ ॥
॥ देवीभुजंगस्तोत्रम् ॥
विरिञ्चयादिभिः पञ्चभिर्लोकपालैः
समूढे महानन्दपीठे निषण्णम् ।
धनुर्बाणपाशाङ्कुशप्रोतहस्तं
महस्त्रपुरं शंकराद्वैतमव्यात् ॥ १ ॥
यदन्नादिभिः पञ्चभिः कोशजालैः
शिरःपक्षपुच्छात्मकैरन्तरन्तः : 1
निगूढे महायोगपीठे निषण्णं
पुरारेरथान्तःपुरं नौमि नित्यम् ॥ २ ॥
विरिश्वादिरूपैः प्रपञ्चे विहृत्य
स्वतन्त्रा यदा स्वात्मविश्रान्तिरेषा ।
तदा मानमातृप्रमेयातिरिक्तं
परानन्दमीडे भवानि त्वदीयम् ॥ ३ ॥