2026-02-23 00:00:55 by ambuda-bot
This page has not been fully proofread.
१४०
सौन्दर्यलहरी ।
सरखत्या: सूक्तीरमृतलहरी कौशलहरी :
पिबन्त्याः शर्वाणि श्रवणचुलुकाभ्यामविरलम् ।
चमत्कारश्लाघाचलितशिरसः कुण्डलगणो
झणत्कारैस्तारैः प्रतिवचनमाचष्ट इव ते ॥ ६० ॥
असौ नासावंशस्तुहिनगिरि वंशध्वजपटि
त्वदीयो नेदीयः फलतु फलमस्माकमुचितम ।
वहुत्यन्तर्मुक्ताः शिशिरकर निश्वासगलितं
समृद्धया यत्तासां बहिरपि च मुक्तामणिधरः ॥ ६१ ॥
प्रकृत्या रक्तायास्तव सुदति दन्तच्छदरुचेः
प्रवक्ष्ये सादृश्यं जनयतु फलं विद्रुमलता ।
न बिम्बं तद्विम्बप्रतिफलनरागादरुणितं
तुला मध्यारोढुं कथमिव विलज्जेत कलया ॥ ६२ ॥
स्मितज्योत्स्नाजालं तव वदनचन्द्रस्य पिबतां
चकोराणामासीदतिरसतया चचुजडिमा ।
अतस्ते शीतांशोरमृतलहरी माम्लरुचयः
पिबन्ति स्वच्छन्द निशिनिशि भृशं काञ्जिकधिया ॥