2026-04-24 03:34:04 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सौन्दर्यलहरी ।
१३९
</ignore>
<verse>तवापर्णे कर्णे जपनयनपैशुन्यच किता
निलीयन्ते तोये नियतमनिमेषा:षाः शफरिका: ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
</verse>
<verse>दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनंरूस्नपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
</verse>
<verse>अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकमम् ।
तिरश्चीनो यत्र श्रवणपथमुल्लङ्घघ्य विलस-
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥
</verse>
<verse>स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्यदूद्रुह्यत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
</verse>
</page>
<ignore>सौन्दर्यलहरी ।
<verse>तवापर्णे कर्णे
निलीयन्ते तोये नियतमनिमे
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
<verse>दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
<verse>अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुक
तिरश्चीनो यत्र श्रवणपथमुल्लङ्
न्नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥
<verse>स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्य
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
</page>