2026-02-23 00:00:55 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी ।
१३९
तवापर्णे कर्णे जपनयनपैशुन्यच किता
निलीयन्ते तोये नियतमनिमेषा: शफरिका: ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं रूपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम ।
तिरचीनो यत्र श्रवणपथमुल्लङ्घय विलस-
नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्य दूत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥
१३९
तवापर्णे कर्णे जपनयनपैशुन्यच किता
निलीयन्ते तोये नियतमनिमेषा: शफरिका: ।
इयं च श्रीर्बद्धच्छदपुटकवाटं कुवलयं
जहाति प्रत्यूषे निशि च विघटय्य प्रविशति ॥ ५६ ॥
दृशा द्राघीयस्या दरदलितनीलोत्पलरुचा
दवीयांसं दीनं रूपय कृपया मामपि शिवे ।
अनेनायं धन्यो भवति न च ते हानिरियता
वने वा हर्म्ये वा समकरनिपातो हिमकरः ॥ ५७ ॥
अरालं ते पालीयुगलमगराजन्यतनये
न केषामाधत्ते कुसुमशरकोदण्डकुतुकम ।
तिरचीनो यत्र श्रवणपथमुल्लङ्घय विलस-
नपाङ्गव्यासङ्गो दिशति शरसंधानधिषणाम् ॥ ५८ ॥
स्फुरद्गण्डाभोगप्रतिफलितताटङ्कयुगलं
चतुश्चक्रं मन्ये तव सुखमिदं मन्मथरथम् ।
यमारुह्य दूत्यवनिरथमर्केन्दुचरणं
महावीरो मारः प्रमथपतये सज्जितवते ॥ ५९ ॥