2026-03-26 04:16:16 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सौन्दर्यलहरी ।
त</ignore>
<verse>तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवनमम् ॥ ४० ॥
</verse>
<verse>तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरस महाताण्डवनटम् ।
उभाभ्यामेताभ्यामुदयविधिमुद्दिश्य दयया
सनाथाभ्यां जज्ञे जनकजननीमज्जगदिदम् ॥ ४१ ॥
</verse>
<verse>गतैर्माणिक्यत्वं गगनमणिभिः सान्द्रवटितं
किरीटं ते हैमं हिमगिरिसुते कीर्तयति यः ।
स नीडेयच्छायाच्छुरणशबलं चन्द्रशकलं
१३५
धनुः शौनासीरं किमिति न निबध्नाति धिषणाम् ॥ ४२ ॥
</verse>
<verse>धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवरवनं
घनस्निग्धश्लक्ष्णं चिकुरनिकुरुम्बं तव शिवे ।
यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो
वसन्त्यस्मिन्मन्ये वलमथनवाटीविटपिनाम् ॥ ४३ ॥
</verse>
</page>
<ignore>सौन्दर्यलहरी ।
त
<verse>तटित्त्वन्तं शक्त्या तिमिरपरिपन्थिस्फुरणया
स्फुरन्नानारत्नाभरणपरिणद्धेन्द्रधनुषम् ।
तव श्यामं मेघं कमपि मणिपूरैकशरणं
निषेवे वर्षन्तं हरमिहिरतप्तं त्रिभुवन
<verse>तवाधारे मूले सह समयया लास्यपरया
नवात्मानं मन्ये नवरस