This page has been fully proofread once and needs a second look.

<page>
<ignore>
१३२
 
सौन्दर्यलहरी ।
 
</ignore>
<verse>
सुधामन्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
 

विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।

करालं यत्क्ष्वेलं कबलितवत:तः कालकलना
 

न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥
 
</verse>
<verse>
किरीटं वैरियंञ्चं परिहर पुरः कैटभभिदः
 

कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम्

प्रणम्रेष्वेतेषु प्रसभमुपयातस्य भवनं
 

भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥
 
</verse>
<verse>
स्वदेहोद्भूताभिर्घृणिभिरणिमाद्याभिरभितो
 

निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।

किमाश्वर्यचर्यं तस्य त्रिनयनसमृद्धिं तृणयतो
 

महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥ ३० ॥
 
</verse>
<verse>
चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
 

स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।

पुनस्त्वन्निर्बन्धादखिलपुरुषार्थैकघटना-
 

स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥
 
</verse>
</page>