This page has not been fully proofread.

१३२
 
सौन्दर्यलहरी ।
 
सुधामन्यास्वाद्य प्रतिभयजरामृत्युहरिणीं
 
विपद्यन्ते विश्वे विधिशतमखाद्या दिविषदः ।
करालं यत्क्ष्वेलं कबलितवत: कालकलना
 
न शंभोस्तन्मूलं तव जननि ताटङ्कमहिमा ॥ २८ ॥
 
किरीटं वैरियं परिहर पुरः कैटभभिदः
 
कठोरे कोटीरे स्खलसि जहि जम्भारिमकुटम ।
प्रणष्वेतेषु प्रसभमुपयातस्य भवनं
 
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥ २९ ॥
 
स्वदेहोद्भूताभिघृणिभिरणिमाद्याभिरभितो
 
निषेव्ये नित्ये त्वामहमिति सदा भावयति यः ।
किमाश्वर्य तस्य त्रिनयनसमृद्धिं तृणयतो
 
महासंवर्ताग्निर्विरचयति नीराजनविधिम ॥ ३० ॥
 
चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
 
स्थितस्तत्तत्सिद्धिप्रसवपरतन्त्रैः पशुपतिः ।
पुनस्त्वनिर्बन्धादखिलपुरुषार्थैकघटना-
 
स्वतन्त्रं ते तन्त्रं क्षितितलमवातीतरदिदम् ॥ ३१ ॥