This page has been fully proofread once and needs a second look.

<page>
<ignore>
सौन्दर्यलहरी ।
 
१३१
 
</ignore>
<verse>
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
 

तिरस्कुर्वन्ने तत्स्वमपि वपुरीशस्तिरयति ।

सदापूर्वः सर्वेवं तदिदमनुगृह्णाति च शिव-
 

स्तवाज्ञामालम्ब्य क्षणचलितयोर्भूभ्रूलतिकयोः ॥ २४ ॥
 
</verse>
<verse>
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
 

भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।
 

तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
 

स्थिता होह्येते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥
 
</verse>
<verse>
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
 

विनाशं कीनाशो भजति धनदो याति निधनम् ।
 

वितन्द्री माहेन्द्री तिविततिरपि संमीलितदृशा
 

महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥
 
</verse>
<verse>
जपो जल्प:पः शिल्पं सकलमपि मुद्राविरचना
 

गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
 

प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
 

सपर्या पर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥
 
</verse>
</page>