2026-02-23 00:00:48 by ambuda-bot
This page has not been fully proofread.
सौन्दर्यलहरी ।
१३१
जगत्सूते धाता हरिरवति रुद्रः क्षपयते
तिरस्कुर्वन्ने तत्स्वमपि वपुरीशस्तिरयति ।
सदापूर्वः सर्वे तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भूतिकयोः ॥ २४ ॥
त्रयाणां देवानां त्रिगुणजनितानां तव शिवे
भवेत्पूजा पूजा तव चरणयोर्या विरचिता ।
तथाहि त्वत्पादोद्वहनमणिपीठस्य निकटे
स्थिता होते शश्वन्मुकुलितकरोत्तंसमकुटाः ॥ २५ ॥
विरिञ्चिः पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाश कीनाशो भजति धनदो याति निधनम् ।
वितन्द्री माहेन्द्री तितिरपि संमीलितदृशा
महासंहारेऽस्मिन्विहरति सति त्वत्पतिरसौ ॥ २६ ॥
जपो जल्प: शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः ।
प्रणामः संवेशः सुखमखिलमात्मार्पणदृशा
सपर्या पर्यायस्तव भवतु यन्मे विलसितम् ॥ २७॥