2026-03-06 02:56:55 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१३०
</ignore>
<ignore>सौन्दर्यलहरी ।
</ignore>
<verse>किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्पपं शमयति शकुन्ताधिप इव
ज्वरपुप्लुष्टान्दृष्ट्राया सुखयति सुधाधार सिरया ॥ २० ॥
</verse>
<verse>तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कलामम् ।
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरीमम् ॥ २१ ॥
</verse>
<verse>भवानि त्वं दासे मयि वितर दृष्टिटिं सकरुणा-
मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥
</verse>
<verse>त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् ।
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥
</verse>
</page>
<ignore>१३०
<ignore>सौन्दर्यलहरी ।
<verse>किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्
ज्वर
<verse>तटिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
निषण्णां षण्णामप्युपरि कमलानां तव कला
महापद्माटव्यां मृदितमलमायेन मनसा
महान्तः पश्यन्तो दधति परमाह्लादलहरी
<verse>भवानि त्वं दासे मयि वितर दृष्