This page has not been fully proofread.

१३०
 
सौन्दर्यलहरी ।
 
किरन्तीमङ्गेभ्यः किरणनिकुरुम्बामृतरसं
 
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिव यः ।
स सर्पाणां दर्प शमयति शकुन्ताधिप इव
 
ज्वरपुष्टान्दृष्ट्रा सुखयति सुधाधार सिरया ॥ २० ॥
 
टिल्लेखातन्वीं तपनशशिवैश्वानरमयीं
 
निषण्णां षण्णामप्युपरि कमलानां तव कलाम ।
महापद्माटव्यां मृदितमलमायेन मनसा
 
महान्तः पश्यन्तो दधति परमाह्लादलहरीम ॥ २१ ॥
 
भवानि त्वं दासे मयि वितर दृष्टि सकरुणा-
 
मिति स्तोतुं वाञ्छन्कथयति भवानि त्वमिति यः ।
तदैव त्वं तस्मै दिशसि निजसायुज्यपदवीं
 
मुकुन्दब्रह्मेन्द्रस्फुटमकुटनीराजितपदाम् ॥ २२ ॥
 
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
 
शरीरार्धं शंभोरपरमपि शङ्के हृतमभूत् ।
 
यदेतत्त्वद्रूपं सकलमरुणाभं त्रिनयनं
 
कुचाभ्यामानम्रं कुटिलशशिचूडालमकुटम् ॥ २३ ॥