This page has been fully proofread once and needs a second look.

<page>
<ignore>
१२८
 
सौन्दर्यलहरी"&quot;
 
</ignore>
<verse>
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
 

कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।

यदालोकौत्सुक्यादमरललना यान्ति मनसा
 

तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम् ॥ १२ ॥
 
</verse>
<verse>
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
 

तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
 

द्वेणीबन्धाः कुचकलशविस्रस्तसिचया
 

ठाकोत्त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥ १३ ।
 
</verse>
<verse>
क्षितौ षट्पञ्चाशद्दिद्विसमधिकपञ्चाशदुदके
 

हुताशे द्वाषष्टिश्चतुरधिकपञ्चाशदनिले ।
 

दिवि द्विः षट्त्रिंशन्मनसि च चतुःषष्टिरिति ये

मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४ ॥
 
</verse>
<verse>
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूट मकुटां

वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
 

सकृन्न त्वा त्वा कथमिव सतां संनिदधते
 

मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥
 
</verse>
</page>