2026-02-23 00:00:42 by ambuda-bot
This page has not been fully proofread.
१२८
सौन्दर्यलहरी" ।
त्वदीयं सौन्दर्य तुहिनगिरिकन्ये तुलयितुं
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभृतयः ।
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिशसायुज्यपदवीम ॥ १२ ॥
नरं वर्षीयांसं नयनविरसं नर्मसु जडं
तवापाङ्गालोके पतितमनुधावन्ति शतशः ।
गद्वेणीबन्धाः कुचकलशविस्रस्तसिचया
ठाको विगलितदुकूला युवतयः ॥ १३ ।
क्षितौ षट्पञ्चाशद्दिसमधिकपञ्चाशदुदके
हुताशे द्वाषष्टिचतुरधिकपञ्चाशदनिले ।
दिवि द्विः षट्त्रिंशन्मनसि च चतुःषष्टिरिति ये
मयूखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥ १४ ॥
शरज्ज्योत्स्नाशुद्धां शशियुतजटाजूट मकुटां
वरत्रासत्राणस्फटिकघटिकापुस्तककराम् ।
सकृन्न त्वा त्वा कथमिव सतां संनिदधते
मधुक्षीरद्राक्षामधुरिमधुरीणाः फणितयः ॥ १५ ॥