This page has not been fully proofread.

१२६
 
सौन्दर्यलहरी ।
 
त्वदन्यः पाणिभ्यामभयवरदो दैवतगण-
 
स्त्वमेका नैवासि प्रकटितवराभीत्यभिनया ।
भयात्रातुं दातुं फलमपि च वाञ्छासमधिकं
शरण्ये लोकानां तव हि चरणावेव निपुणौ ॥ ४ ॥
 
हरिस्त्वामाराध्य प्रणतजन सौभाग्यजननीं
 
पुरा नारी भूत्वा पुररिपुमपि क्षोभमनयन ।
स्मरोऽपि त्वां नत्वा रतिनयनलेह्येन वपुषा
 
मुनीनामप्यन्तः प्रभवति हि मोहाय महताम् ॥ ५ ॥
 
धनुः पौष्पं मौर्वी मधुकरमयी पश्च विशिखा
वसन्तः सामन्तो मलयमरुदायोधनरथः ।
तथाप्येकः सर्वं हिमगिरिसुते कामपि कृपा-
मपाङ्गात्ते लब्ध्वा जगदिदमनङ्गो विजयते ॥ ६ ॥
 
aणकावदामा करिकलभकुम्भस्तननता
 
परिक्षीणा मध्ये परिणतशरश्चन्द्रवदना ।
 
धनुर्बाणान्पाशं सृणिमपि दधाना करतलै:
 
पुरस्तादास्तां नः पुरमथितुराहोपुरुषिका ॥ ७ ॥