2026-02-22 23:56:23 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ सुब्रह्मण्यभुजंगम् ॥
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्तिवत्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्द न जानामि चार्थ
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्वापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महश्चित्तगेहम् ।
महदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥ ३ ॥
॥ सुब्रह्मण्यभुजंगम् ॥
सदा बालरूपापि विघ्नाद्रिहन्त्री
महादन्तिवत्रापि पञ्चास्यमान्या ।
विधीन्द्रादिमृग्या गणेशाभिधा मे
विधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्द न जानामि चार्थ
न जानामि पद्यं न जानामि गद्यम् ।
चिदेका षडास्या हृदि द्योतते मे
मुखान्निःसरन्ते गिरश्वापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढं
मनोहारिदेहं महश्चित्तगेहम् ।
महदेवदेवं महावेदभावं
महादेवबालं भजे लोकपालम् ॥ ३ ॥