This page has been fully proofread once and needs a second look.

<page>
<subtitle>
॥ श्रीः ॥
 
</subtitle>
<title>
॥ सौन्दर्यलहरी ॥
 
</title>
<verse>
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं

न चेदेवं देवो न खलु कुशल:लः स्पन्दितुमपि ।

अतस्त्वामाराध्यां हरिहरविरिश्वाञ्चादिभिरपि
 

प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
 
</verse>
<verse>
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
 

विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् ।
 

वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
 

हरः संक्षुद्यैनं भजति भसितोद्धूलनविधिम् ॥ २ ॥
 
</verse>
<verse>
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
 

जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
 

दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
 

निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥
 
</verse>
</page>