This page has not been fully proofread.

॥ श्रीः ॥
 
॥ सौन्दर्यलहरी ॥
 
शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं
न चेदेवं देवो न खलु कुशल: स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिश्वादिभिरपि
 
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥ १ ॥
 
तनीयांसं पांसुं तव चरणपङ्केरुहभवं
 
विरिञ्चिः संचिन्वन्विरचयति लोकानविकलम् ।
 
वहत्येनं शौरिः कथमपि सहस्रेण शिरसां
 
हरः संक्षुद्यैनं भजति भसितोलनविधिम् ॥ २ ॥
 
अविद्यानामन्तस्तिमिरमिहिरद्वीपनगरी
 
जडानां चैतन्यस्तबकमकरन्दस्रुतिझरी ।
 
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
 
निमग्नानां दंष्ट्रा मुररिपुवराहस्य भवति ॥ ३ ॥