2026-02-25 06:31:44 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>उमामहेश्वरस्तोत्रम् ।
</ignore>
<verse>नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ८ ॥
</verse>
<verse>नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ९ ॥
</verse>
<verse>नमः शिवाभ्यां जटिलंधराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ १० ॥
</verse>
<verse>नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम्
॥ ११ ॥
</verse>
<ignore>१२३
</ignore>
</page>
<ignore>उमामहेश्वरस्तोत्रम् ।
<verse>नमः शिवाभ्यामशुभापहाभ्या-
मशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ८ ॥
<verse>नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखाम्बुजाभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ९ ॥
<verse>नमः शिवाभ्यां जटिलंधराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ १० ॥
<verse>नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमो नमः शंकरपार्वतीभ्याम्
<ignore>१२३
</page>