2026-02-25 06:27:29 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१२२
</ignore>
<ignore>उमामहेश्वरस्तोत्रम् ।
</ignore>
<verse>नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम्
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ४ ॥
</verse>
<verse>नमः शिवाभ्यां परमौषधाभ्यां
पश्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥
</verse>
<verse>नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितं कराभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥
</verse>
<verse>नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित देवताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ७ ॥
</verse>
</page>
<ignore>१२२
<ignore>उमामहेश्वरस्तोत्रम् ।
<verse>नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम्
जम्भारिमुख्यैरभिवन्दिताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ४ ॥
<verse>नमः शिवाभ्यां परमौषधाभ्यां
पश्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥
<verse>नमः शिवाभ्यामतिसुन्दराभ्या-
मत्यन्तमासक्तहृदम्बुजाभ्याम् ।
अशेषलोकैकहितं
नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥
<verse>नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित
नमो नमः शंकरपार्वतीभ्याम् ॥ ७ ॥
</page>