2026-02-25 06:26:07 by akprasad
This page has been fully proofread once and needs a second look.
<subtitle>॥ श्रीः ॥</subtitle>
<title>॥ उमामहेश्वरस्तोत्रम् ॥
<verse n="1">नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्यां ।
नगेन्द्रकन्या
नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥
<verse>नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
'
नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥
<verse>नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्विविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
'
नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥
</page>