This page has not been fully proofread.

॥ BT: ॥
 
॥ उमामहेश्वरस्तोत्रम् ॥
 
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्यां ।
 
नगेन्द्रकन्या वृषकेतनाभ्यां
 
नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥
 
नमः शिवाभ्यां सरसोत्सवाभ्यां
 
नमस्कृताभीष्टवरप्रदाभ्याम् ।
 
नारायणेनार्चितपादुकाभ्यां
 
'नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥
 
नमः शिवाभ्यां वृषवाहनाभ्यां
 
विरिञ्विविष्विन्द्रसुपूजिताभ्याम् ।
 
विभूतिपाटीरविलेपनाभ्यां
 
'नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥