This page has been fully proofread once and needs a second look.

<page>
<ignore>
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।
 
</ignore>
<verse>
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे

कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।

कर्पूराश्चितदीपदीप्तिमिलिते रम्योपधानद्वये
 
११५
 

पार्वत्या:याः करपद्मलालितपदं मृत्युंजयं भावये ॥४४॥
 
</verse>
<verse>
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
 
मन:

र्मनः
पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।

करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-

न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम् ॥ ४५ ॥
 
</verse>
<verse>
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्ग
 
दं
मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।

भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं

तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥
 
</verse>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

श्रीमृत्युंजयमानसिक पूजास्तोत्रं संपूर्णम् ॥
 
</trailer>
</page>