2026-02-23 00:00:15 by ambuda-bot
This page has not been fully proofread.
श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराश्चितदीपदीप्तिमिलिते रम्योपधानद्वये
११५
पार्वत्या: करपद्मलालितपदं मृत्युंजयं भावये ॥४४॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
मन: पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युंजयपदमनेकाद्भुतपदम् ॥ ४५ ॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गद
मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीमृत्युंजयमानसिक पूजास्तोत्रं संपूर्णम् ॥