This page has not been fully proofread.

११०
 
श्रीमृत्युंजयमान सिकपूजास्तोत्रम् ।
 
साज्यं समस्तामरवर्गहृद्यं
 
सुरेश मृत्युंजय वंशदीपम् ॥ २२ ॥
 
राजानं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिगूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युंजय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥
 
कुश्माण्डवार्ताकपटोलिकानां
 
फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि
 
श्रीकण्ठ मृत्युंजय भक्षयेश ॥ २४ ॥
 
शीतलं मधुरं स्वच्छं पावनं वासितं लघु
मध्ये स्वीकुरु पानीयं शिव मृत्युंजय प्रभो ॥ २५ ॥
 
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥ २६ ।
 
केवलमतिमाधुर्य
 
दुग्धैः स्निग्धैश्च शर्करामिलितैः ।