This page has not been fully proofread.

श्रीमृत्युंजयमानसिकपूजास्तोत्रम् ।
 
गलदलकाननपद्मं
 
मृत्युंजय भावयामि हृत्पद्मे ॥ १८ ॥
 
मुक्तातपत्रं शशिकोटिशुभ्रं
 
शुभप्रदं काञ्चनदण्डयुक्तम् ।
माणिक्य संस्थापितहेमकुम्भं
 
सुरेश मृत्युंजय तेऽर्पयामि ॥ १९ ॥
 
मणिमुकुरे निष्पटले
 
त्रिजगद्गाढान्धकारसप्ताश्वे ।
 
कंदर्पकोटिसदृशं
 
मृत्युंजय पश्य वदनमात्मीयम् ॥ २० ॥
 
कर्पूरचूर्ण कपिलाज्यपूतं
 
दास्यामि कालेयसमन्वितैश्च ।
 
समुद्भवं पावनगन्धधूपितं
 
मृत्युंजयाङ्गं परिकल्पयामि ॥ २१ ॥
 
वर्तित्रयोपेतमखण्डदीप्त्या
 
तमोहरं बाह्यमथान्तरं च ।
 
१०९