This page has been fully proofread once and needs a second look.

<page>
<ignore>
१०४
 
</ignore>
<ignore>
श्रीदक्षिणामूर्त्यष्टकम् ।
 
</ignore>
<verse>
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः

शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।

स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-

स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥
 
</verse>
<verse>
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-

नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।

नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो-

स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥
 
</verse>
<verse>
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिमिंस्तवे

तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च संकीर्तनात् ।

सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वत:
तः
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहृतम् ॥ १० ॥
 
</verse>
<trailer>
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
 

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 

श्रीमच्छंकरभगवतः कृतौ
 

श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम् ॥
 
</trailer>
</page>