2026-02-22 23:59:34 by ambuda-bot
This page has not been fully proofread.
१०४
श्रीदक्षिणामूर्त्यष्टकम् ।
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामित-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८ ॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमा-
नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किंचन विद्यते विमृशतां यस्मात्परस्माद्विभो-
स्तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९ ॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिस्तवे
तेनास्य श्रवणात्तदर्थमननाद्वयानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वत:
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहृतम् ॥ १० ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्त्यष्टकम् संपूर्णम् ॥