This page has not been fully proofread.

॥ श्रीः ॥
 
॥ श्रीदक्षिणामूर्त्यष्टकम् ॥
 
----
 
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
 
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १ ॥
 
बीजस्यान्तरिवाङ्करो जगदिदं प्रानिर्विकल्पं पुन-
मयाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
 
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २ ॥
 
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ
 
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ३ ।