This page has not been fully proofread.

दक्षिणामूर्तिवर्णमालास्तोत्रम् ।
 
हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
 
ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
 
तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ २४ ॥
 
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
 
रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्र: कृपयासा-
वूरीकुर्याद्देशिकसम्राट् परमात्मा ॥ २५ ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
 
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
 
श्रीमच्छंकरभगवतः कृतौ
 
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं
संपूर्णम् ॥
 
१०१