2026-02-28 22:59:23 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१००</ignore>
<ignore>दक्षिणामूर्तिवर्णमालास्तोत्रम् ।</ignore>
<verse>प्रज्ञामात्रं प्रापितसंबिन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥</verse>
<verse>य<error>स्यां</error><fix>स्या</fix>ज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २१ ॥</verse>
<verse>छन्नेऽविद्यारूपपटेनैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ॥</verse>
<verse>स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
प्राणश्चेतः सर्वगतो यः सकलात्मा ।
कूटस्थो यः केवलसच्चित्सुखरूप-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २३ ॥</verse>
</page>