This page has been fully proofread once and needs a second look.

<page>
<ignore>
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।
 
</ignore>
<verse>
मेधावी स्यादिन्दुवतंसं धृतवीणं
 

कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।

चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्
 
धं
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥
 
</verse>
<verse>
धाम्नां धाम प्रौढरुचीनां परमं य-

त्
सूर्यादीनां यस्य स हेतुर्जगदादे:देः

एतावान्यो यस्य न सर्वेश्वरमीड्यं
 

तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥
 
</verse>
<verse>
प्रत्याहारप्राणनिरोधादिसमर्थेथै-
 

र्
भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
 

स्वात्मत्वेन ज्ञायत एव त्वरया य-
 

स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥
 
</verse>
<verse>
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
 

चित्तान्तःस्थः प्रेरयति स्वे सकलेsपि ।
 

कृत्ये देवः प्राक्तनकर्मानुसर :रः सं-
 

स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥
 
</verse>
<ignore>
९९
 
</ignore>
</page>