This page has not been fully proofread.

दक्षिणामूर्तिवर्णमालास्तोत्रम् ।
 
मेधावी स्यादिन्दुवतंसं धृतवीणं
 
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्रानिमिषार्ध
 
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १६ ॥
 
धाम्नां धाम प्रौढरुचीनां परमं य-
सूर्यादीनां यस्य स हेतुर्जगदादे: ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
 
तं प्रत्यचं दक्षिणव कलयामि ॥ १७ ॥
 
प्रत्याहारप्राणनिरोधादिसमर्थे-
 
भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
 
स्वात्मत्वेन ज्ञायत एव त्वरया य-
 
स्तं प्रत्यचं दक्षिणवक्रं कलयामि ॥ १८ ॥
 
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
 
चित्तान्तःस्थः प्रेरयति स्वे सकलेsपि ।
 
कृत्ये देवः प्राक्तनकर्मानुसर : सं-
 
स्तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ १९ ॥
 
९९