This page has not been fully proofread.

९६
 
दक्षिणामूर्तिवर्णमालास्तोत्रम् ।
 
भद्रारूढं भद्रदमाराधयितॄणां
 
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्धधै करुणाधि
 
तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ ४ ॥
 
गर्भान्तःस्थाः प्राणिन एते भवपाश-
च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रिप्रस्फुरदम्भोरुहयुग्मं
 
तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ ५ ॥
 
चक्रं धन्याः संसृतिवार्धेरतिमात्रा-
द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
 
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६ ॥
 
तेजः स्तोमैरङ्गद संघट्टितभास्व-
 
माणिक्योत्यैर्भासितविश्वो रुचिरैर्यः ।
 
तेजोमूर्ति खानिलतेज:प्रमुखाबिंध
 
तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७ ॥