This page has not been fully proofread.

॥ eft: ॥
 
दक्षिणामूर्ति-
वर्णमालास्तोत्रम् ॥
 
*
 
ॐ मित्येतद्यस्य बुधैर्नाम गृहीतं
यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
 
स्तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ १ ॥
 
नम्राङ्गाणां भक्तिमतां यः पुरुषार्था-
न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं
 
तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ २ ॥
 
मोहध्वस्त्यै वैणिकवैयासिक मुख्याः
 
संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
 
स्तं प्रत्यचं दक्षिणवक्त्रं कलयामि ॥ ३ ॥