This page has not been fully proofread.

गणेशपञ्चरत्नम् ।
 
अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनं
 
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणं
 
कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥
 
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजम
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
 
तमेकदन्तमेव तं विचिन्तयामि संततम् ॥ ५ ॥
 
महागणेशपञ्चरत्नमादरेण योऽन्वहं
 
प्रजल्पति प्रभातके हृदि स्मरन्गणेश्वरम ।
 
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
 
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥ ६ ॥